संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » किम् ऐदम्प्राथम्येन विमानं सज्जीकृतं भारतीयेन ?

किम् ऐदम्प्राथम्येन विमानं सज्जीकृतं भारतीयेन ?

indian airplane-3

सम्भाषण- सन्देशः

युगाब्दः ५११५ भाद्रपदमासः सप्टम्बर् – २०१३

 किम् ऐदम्प्राथम्येन विमानं सज्जीकृतं भारतीयेन ?

अश्विनीकुमारः

‘विमानं केन अन्विष्टम् ?’ इति पृष्टे, बालोऽपि वदति – ‘अमेरिकीयाभ्यां  रैट्सहोदराभ्याम्’ इति । यतः पाठयपुस्तकेषु सर्वत्र तदेव मुद्रितं दृश्यते । ताभ्यां १९०३ तमे वर्षे विमानोड्डयनं कारितम् । आधुनिकप्रमाणानाम् आधारेण एव कैश्चित् प्रतिपाद्यते यत् ब्रेझिल्देशीयः सन्तोसम् डयूमोण्ट् (Santos Dumont) १९०१ तमे वर्षे एव विमानोड्डयनाय प्रयासं कृतवान् इति । किन्तु तेन प्रक्षेपणसाधनं भूमेः अधोऽन्मुखाता च न उपयुक्ता आसीत् उड्डयनारम्भाय । अतः अष्टपादमितमात्रम् औन्नत्यं प्राप्य तदीयं ‘विमानसाधनम्’ अपतत् । पूर्वोक्तयोः, उभयोः उपयोगं कृत्वा रैट्सहोदरौ विमानस्य उड्डयनं संसाध्य ८५२ मीटरौत्रस्यं प्राप्तवन्तौ आस्ताम् । अन्ततो गत्वा ताभ्याम् एव ख्यातिः अधिगता ।

          एतत्सम्बन्धे अन्यः कश्चन प्रश्चः तदा श्रूयते – रैट्सहोदरयोः प्रयासात् पूर्वं भारतीयेन केनचित् तादृशः प्रयासः कृतः आसीत् किम् ?’इति । आम् इति वदन्ति बहवः’ भारद्वाजविमानशास्त्रस्य आधारेण १ ८ ७ ५ तमे वर्षे शिवकरबापूजीताल्पडेनामकेन जनेन मुम्बयीनगरे चौपाटीतीरोद्याने महाराजस्य सय्याजीराव्गायकवाडस्य (तृतीयस्य), असंख्यजनानां च सम्मुखे विमानस्य उड्डयनं कारितम् आसीत् । किन्तु भूमितः उद्गतं तदीयं विमानम् अल्पे एव काले भूमौ अपतत् ।

          एतस्याः घटनायाः समर्थकाः यश तथैव मिथ्यात्वप्रतिपादकाः अपि सन्ति बहवः । समर्थकप्रणाणस्य प्राबल्यस्य अभावात् एषा घटना किंवन्दन्तीमात्रार्हतां गता अस्ति बहुधा । ये भारतीयत्वस्य विषये अत्पादरवन्तः सन्ति ते एतां घटनां पौनः पुन्येन स्ववादे उपस्थापयन्ति चेदपि विरोधिनः तं वादं न पुरस्कुर्वन्ति । तेषां वादस्य दौर्बल्यस्थानानि कानि इति अग्रे परिशीलयाम । आदौ तु समर्थकप्रमाणानि सन्ति किम् इत्यत्र अवधानं दद्याम ।

indian airplane-2jpg

          वस्तुतः प्रबलानि द्वित्राणि प्रमाणानि अत्र उपस्थापयितुम् इष्यते । एकं तु ‘टैम्स्’ इत्यनयाः पत्रिकया प्रकाशिता वार्ता । अपरा च ‘डेक्कन् हेराल्ड्’ पत्रिकया प्रकाशिता वार्ता ।

          ‘टैम्स्ट’ पत्रिका लिखति – ‘१८०९५ तमे वर्षे भारतीयऋ मेधावी कश्चन विमानस्य उड्डयनं साधितवान् । रैट्सहोदरौ तु २००३ तमे वर्षे डिसेम्बर्मासस्य १७ दिनाङ्के विमानोड्डयनं साधितवन्तौ । ततः अष्टभ्यः वर्षेभ्यः पूर्वमेय मुम्बयीनिवासिना शिवकरबापूजी-ताल्पडेनामकेन विमानोड्डयनं साधितमस्ति । ताल्पडेशिष्येषु अन्यतमेन पि. सातबळेकरेण प्रतिपादितं यत् ताल्पडेवर्यस्य ‘मारुतसख’नामक विमानं कांश्चन निमेषान् (Minutes) यावत् उड्डुयनं कृत्वा प्रत्यागच्छत्’ इति ।

          डेक्कन्हेराल्डपत्रिकायां के . आर्.एन्.स्वामी लिखति – ‘१७८७४ तमे वर्षे जून्मासे प्रमुखस्य भारतीयन्यायाधीशस्य, राष्ट्रवादिनः नेतृत्वयुतस्य जनसमुदायस्य च पुरतः विमानोड्डयनं प्रवृत्तम्’ इति ।

          तया एव पत्रिकया ‘केसरी’ पत्रिकायां प्रकाशितायाः वार्तायाः उल्लेखः अपि क्रियते । दौर्भाग्येण ‘केसरी’ पत्रिकायाः दिनाङ्कः न ज्ञायते । तस्मिन् काले तस्याः पत्रिकायाः सम्पादनं करोति स्म स्वयं गोपालकृष्णगोखले एव । अतः तत्र असत्यवार्तानां निराधारवार्तायां वा प्रकाशनस्य सम्भवः एव न आसीत् । अतः स्पष्टं यत् केसरीपत्रिकायां प्रकाशिता वार्ता आधाररहिता भवितुं नार्हति इति ।

          १९४२ तमे वर्षे सप्टम्बर्मासे ‘वन्दे मातरम्’ इत्यस्यां गुजरातीयायां दैनिक्यां जि. बि. केल्करः (केसरी-मराठा-पत्रिकयोः सम्पादकः) ताल्पडेवर्येण कृतं विमारोड्डुयनम् उल्लिखति स्वीये लेखे । तस्मिन् एव वर्षे मराठापत्रिकायां (३१ अक्टो – १९४२) ‘ऐतम्प्राथम्येन विमानान्वेषणं कृतवान् भारतीयः’ इति शीर्षकयुक्ते विविधवृत्तान्तर्गते लेखे – ‘१८९४ तमे वर्षे ताल्पडेवर्येण नगरसभार्यालये आत्मना सज्जीकृतस्य मारुतसखनामकस्य विमानस्य स्वरूप-कार्यशैलीप्रभृतयः विवृताः । तस्या सभायां बरोडाराजः सय्याजीराव्गायकवाडः न्यायमूर्तिः एम्. जी. रानडे, मुम्बयीयः प्रसिद्धः वाणिज्योद्यमी  लालजी नारायणजी इत्यादयः उपस्थिताः आसन् । ते सर्वे ताल्पडेवर्यस्य प्रयासं प्राशंसन्’ इति विवृतम् अस्ति ।

indian airplan

          एतस्याः घटनायाः निराकर्तारः अपि सन्ति अनेके । एषा घटना प्रवृत्ता इत्यत्र प्रमाणानि न सन्ति, अथवा विद्यामानानि प्रमाणानि दुर्बलानि इति ऐषां वादः तेषां वादस्य मुख्यांशाः –

          १९०८ तमे वर्षे ताल्पडेवर्यः ‘प्राचीन विमान काले चा शोच’ इच्येतत् पुस्तक प्रकाशितवान् । तत्र अस्याः घटनायाः उल्लेखः न दृश्यते । तथैव तात्पडेवर्यः १९०४ तः १९०८ पर्यन्तम् ‘आर्यधर्म’ मासिक्याः विज्ञानपत्रिकायाः सम्पादकः आसीत् । तत्रापि अस्याः घटनायाः उल्लेखः न दृश्यते ।

          ‘मारुतसख’ नामकस्य विमानस्य निर्माणे मार्गदर्शकः आसीत्  सुब्बरायशास्त्री । ताल्पुडेवर्यः १९१६ तमे वर्षे दिवं गतः । सुब्बरायशास्त्री भरद्वाजप्रणीतं ‘यन्त्रसर्वस्व’ स्य अङ्गभूतं ‘विमानशास्त्रं’ १९१३ तमे वर्षे प्राकाशयत् । (तस्य दिवङ्गतिस्तु  १९४१ तमे वर्षे) किन्तु विमानशास्त्रपुस्तके क्वापि ताल्पडेप्रयासस्य उल्लेखः न दृश्यते । अन्यच्च ताल्पडेवर्यः स्वयं संस्कृतविद्वान् तु आसीत् , न तु तन्त्रशास्त्रज्ञः, येन विमानादीनिर्माण स्वयं कुर्यात् । तस्य पत्नी अपि सामान्या गृहिणी । अतः तेन विमानं निर्मित स्यात् इत्यत्र विश्वासः कष्टाय एव ….. इत्येवं विरोधिनाम् अनेके वादाः ।

          वादप्रतिवादयोः विषये चर्चाम् अकृत्वा अत्र अन्ये केचन एतत्सम्बद्धाः बिन्दवः उपस्थाप्यन्ते, ये च एतद्विषयकान् कांश्चन तथ्यांशान् ज्ञापयेयुः ।

          ताल्पडेवर्यः पत्नयाः मरणस्य अनन्तरम् एतस्मिन् कार्ये क्षीणासक्तिः जातः त्रिपश्चाशतमे वयसि १९१७ तमे वर्षे सः दिवं गतः । तस्य दिवङ्गतेः अनन्तरमपि गृहे विमानसम्बद्धाः केचन भागाः आसन् । ताल्पडेवर्यस्य दौहित्रः रोशनताल्पडे वदति- ‘गृहे स्थितेषु केषुचित् यन्त्रभागेषु उपविश्य वयम् आकाशे उड्डयनं कृतवन्तः इव कल्पनां कुर्मः स्म’ इति । अग्रे ते भागाः ‘रोले ब्रदर्स’ इत्येतस्यै संस्थायै विक्रिताः, ग्रहे उपयोगाभावात् ।

          अग्रे कदाचित् मारुतसखस्य प्रतिकृतिं निर्माय विलेपार्लेप्रदेशे प्रदर्शिन्यां स्थापिता आसीत् । तस्याः केचन भागाः बेङ्गलूरुस्थायै ‘हिन्दुस्थान एरोनाटिक्स् लिमिटेड्’ संस्थायै दत्ताः ।

indian airplane 6

          ताल्पडेवर्यः विमानं रचितवान् यत् तत्तु सुब्बरायशास्त्रिवर्यस्य मार्गदर्शनेन । सुब्बरायवर्येण यत् भारद्वाजीयं विमानशास्त्रं प्रकाशितं तत्र अनेकविधानां विमानानां अस्ति । तेषु अष्टमप्रकारकम् आसीत् ताल्पडेवर्येण कृतम् । तत्र यादृशं तन्त्रज्ञानम् उपयुक्तं तादृशमेव तन्त्रज्ञानम् उपयुज्य जर्मनीयैः अपि विमानं (WWII) सज्जीकृतम् आसीत् भाविनि काले ।

          पुरुषोत्तमविश्रामभावजीनामकः कश्चन उद्यमी विमानिर्माणविषये संशोधन कर्तुं कोटिशः रूप्यकाणि व्ययीकर्तुं कृतसङ्कल्पः आसीत् । किन्तु तस्य वाणिज्ये जातायाः हानेः कारणतः, तदीयस्य मरणस्य कारणतः च तत् संशोधनं विशेषप्रगतिं न प्राप्नोत् । ताल्पडेवर्यस्य प्रयोगः एव तस्य सङ्कपस्य कारणं स्यात् इति तर्क्यते । एषा वार्ता २४.१०.१९४२ तमे वर्षे केसरीपत्रिकायां प्रकाशिता आसीत् ।

          विमानशास्त्रस्य प्रकाशकः सुब्बरायशास्त्री स्वस्य योगगुरोः भास्करानन्दतः तत्  विवरणं प्राप्तवान इति श्रूयते । प्रायः १८७९-१८८५ वर्षयोः मध्ये एषा घटना प्रवृत्ता स्यात् । किन्तु गुरुवर्येण तस्य प्रकाशनाय अनुज्ञा न दत्ता । प्रा. बि . सूर्यनारायणरावः महता अनुरोधेन प्रकाशनाय अनुज्ञा सम्पादितवान् । अतः १९११ तः आरभ्य ‘भौतिककलानिधि’ नामके मासिके अष्टादशसु सञ्चिकासु विमानशास्त्रं प्रकासितं जातम् । एषः बि. सूर्यनारायणरावः एव ‘आस्ट्रालाजिकल् मेगझिन्’ इत्यस्याः पत्रिकायाः संस्थापकसम्पादकः आसीत् ।

          पुटुण्णचेट्टिवर्यः सुब्बरायशास्त्रिवर्यस्य अभिमानिषु अन्यतमः । सः टिप्पणी सहिततया विमानाना ‘ब्लू प्रिण्ट्’ सज्जीकरणीयम् इति बहुधा अनुरुणद्धि स्म । प्रायः प्रायः १९१८ तमे वर्षे यदा लार्ड् माण्डेग्वर्यः भारतम् आगतः तदा केनचित् पार्सीपुरुषेण मुम्बयीसर्वकारस्य पुरतः अयं विषयः उपस्थापितः । तस्य परिणामतः शास्त्रिवर्यः कारागारे स्थापितः अभवत् । उन्नताधिकारिणां, प्रभाववतां पुरुषाणां च साहाय्येन शास्त्रिवर्यः कथञ्चित् कारागारात् विमुक्तः जातः । ततः अग्रे तेन एतद्विषयक ‘तत्त्वभागमात्रम् अधिकृत्य कथ्यते स्म, न ततोऽधिकम्  ।

          विमानशास्त्रपुस्तकम् आधारीकृत्य विमाननिर्माणं दुश्शकम् इति बहूनाम अभिप्रायः । अयं वादः तिरस्कारार्हः तु न । यतः सः ग्रन्थः अपूर्ण । किन्तु तस्मिन् ग्रन्थे विवृतेन एव क्रमेण ‘चुम्बकमणि’ सज्जीकृतवन्तः सन्ति मुम्बयीस्थाः  ऐ.ऐ.टि.- जनाः । एतस्मात् स्पष्टं यत् विमानशास्त्रग्रन्थः सर्वथा निर्मूलः तु न स्यात् इति ।

indian airplane 7

          विविधेभ्यः मूलेभ्यः विषयान् सङ्गृह्य अत्र उपस्थापनाय प्रयासः कृतः । विमाननिर्माणं कृतम् इति, न कृतम् इति वा निर्दुष्टतया प्रतिपादयितुं प्रमाणानि अपर्याप्तानि इत्यतः प्राप्तानाम् विविधेभ्यः मूलेभ्यः प्रमाणानि इतोऽपि अधिकतया सङ्गहणीयानि सन्ति इत्यत्र नास्ति विवादः ।

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​