संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » चलचित्रावली » स्तोत्रावली » देवीस्तोत्राणि » सरस्वतीस्तोत्रम् (2)

सरस्वतीस्तोत्रम् (2)

नसरस्वतीस्तोत्रम् – लिखितम् — आङ्ग्लानुवादश्च

नसरस्वतीस्तोत्रम् – लिखितम् — आङ्ग्लानुवादश्च

या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशङ्करप्रभृतिभिर्देवैस्सदा पूजिता
सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ १॥
दोर्भिर्युक्ता चतुर्भिं स्फटिकमणिनिभै रक्षमालान्दधाना
हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण ।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ २॥
सुरासुरासेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका ।
विरिञ्चिपत्नी कमलासनस्थिता सरस्वती नृत्यतु वाचि मे सदा ॥ ३॥
सरस्वती सरसिजकेसरप्रभा तपस्विनी सितकमलासनप्रिया ।
घनस्तनी कमलविलोललोचना मनस्विनी भवतु वरप्रसादिनी ॥ ४॥
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ ५॥
सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः ।
शान्तरूपे शशिधरे सर्वयोगे नमो नमः ॥ ६॥
नित्यानन्दे निराधारे निष्कलायै नमो नमः ।
विद्याधरे विशालाक्षि शुद्धज्ञाने नमो नमः ॥ ७॥
शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः ।
शब्दब्रह्मि चतुर्हस्ते सर्वसिद्‍ध्यै नमो नमः ॥ ८॥
मुक्तालङ्कृत सर्वाङ्ग्यै मूलाधारे नमो नमः ।
मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ॥ ९॥
मनो मणिमहायोगे वागीश्वरि नमो नमः ।
वाग्भ्यै वरदहस्तायै वरदायै नमो नमः ॥ १०॥
वेदायै वेदरूपायै वेदान्तायै नमो नमः ।
गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥ ११॥
सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः ।
सम्पन्नायै कुमार्यै च सर्वज्ञ ते नमो नमः ॥ १२॥
योगानार्य उमादेव्यै योगानन्दे नमो नमः ।
दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥ १३॥
अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः ।
चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ॥ १४॥
अणुरूपे महारूपे विश्वरूपे नमो नमः ।
अणिमाद्यष्टसिद्धायै आनन्दायै नमो नमः ॥ १५॥
ज्ञान विज्ञान रूपायै ज्ञानमूर्ते नमो नमः ।
नानाशास्त्र स्वरूपायै नानारूपे नमो नमः ॥ १६॥
पद्मदा पद्मवंशा च पद्मरूपे नमो नमः ।
परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनी ॥ १७॥
महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः ।
ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥ १८॥
कमलाकरपुष्पा च कामरूपे नमो नमः ।
कपालि कर्मदीप्तायै कर्मदायै नमो नमः ॥ १९॥
सायं प्रातः पठेन्नित्यं षाण्मासात्सिद्धिरुच्यते ।
चोरव्याघ्रभयं नास्ति पठतां श्रृण्वतामपि ॥ २०॥
इत्थं सरस्वतीस्तोत्रमगस्त्यमुनिवाचकम् ।
सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशनम् ॥ २१॥
॥ इत्यगस्तमुनि प्रोक्तं सरस्वतीस्तोत्रं सम्पूर्णम् ॥

सरस्वतीस्तोत्रम् (सस्फुरत्चित्राणि)

सरस्वतीस्तोत्रम् (सस्फुरत्चित्राणि)

सरस्वती महाभद्रा महामाया वरप्रदा
श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रका ॥
शिवानुजा पुस्तकभृत् ज्ञानमुद्रा रमा परा
कामरूपा महाविद्या महापातकनाशिनी ॥
महाश्रया मालिनी च महाभोगा महाभुजा
महाभागा महोत्साहा दिवयाङ्गा सुरवन्दिता ॥
महाकाली महापाशा महाकारा महाङकुशा
पीता च विमला विश्र्वा विद्युन्माला च वैष्णवी ॥
चन्द्रिका चन्द्रवदना चन्द्रलेखाविभूषिता
सावित्री सुरसा देवी दिव्यालन्कारभूषिता ॥
वाग्देवी वसुधा तीव्रा महाभद्रा महाबला
भोगदा भारती भामा गोविन्दा गोमती शिवा ॥
जटिला विन्ध्यवासा च विन्ध्याचल विराजिता
चण्डिका वैष्णवी ब्राह्मी ब्रह्मज्ञानैकसाधना ॥
सौदामिनी सुधामूर्तिस्सुभ्रदा सुरपूजिता
सुवासिनी सुनासा च विनिद्रा पद्मलोचना ॥
विद्यारूपा विशालाक्षी ब्रह्मजाया महाफला
त्रयीमूर्ती त्रिकालज्ञा त्रिगुणा शास्त्ररूपिणी ॥
शुम्भासुर प्रमथिनी शुभदा च स्वरात्मिका
रक्तबीजनिहन्त्री च चामुण्डा अम्बिका तथा ॥
मुण्डकायप्रहरणा धूम्रलोचनमर्दना
सर्वदेवस्तुता सौम्या सुरासुरनमस्कृता ॥
कालरात्रि कलाधारा रूपसौभाग्यदायिनी
वाग्देवी च वरारोहा वाराही वारिजासना ॥
चित्राम्बरा चित्रगन्धा चित्रमाल्य विभूषिता
कान्ता कामप्रदा वन्द्या विद्याधरा सुपूजिता ॥
श्र्वेतासना नीलभुजा चतुर्वर्ग फलप्रदा
चतुराननसाम्राज्या रक्तमध्या निरञ्जना ॥
हंसासना नीलजङघा ब्रह्मविष्णुशिवात्मिका
एवं सरस्वती देव्या नाम्नामष्टोत्तरशतम् ॥
इति श्री सरस्वती अष्टोत्तरशतनामस्तोत्रम् संपूर्णम्

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​