संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » विभूतिः » वेदसम्बद्धाः

वेदसम्बद्धाः

वेदानाम् अवबोधः कथम्


वैदिकं शरीर विज्ञानम् कोशविज्ञानञ्च


वेदाः एव किमर्थम्?

vedah

वेदाः एव किमर्थम्?

हिन्दीमूलम् – स्वामी विवेकानन्दसरस्वती

विश्वे धर्मपदवाच्याः (ये वस्तुतः धर्मेति कथयितुं न शक्याः सन्ति) नैकाः सम्प्रदायाः नैकाः पन्थानः विद्यन्ते, येषां स्वस्वसम्प्रदायग्रन्थाः अपि सन्ति। एतस्यां परिस्थितौ वेदान् एव परमप्रमाणरूपेण किमर्थं मन्येमहि? इति प्रश्नः स्वाभाविकतया एव उद्भवति। अयं कश्चन एतादृशः प्रश्नः वर्तते, यस्य उत्तरदानेन विना वेदान् प्रमाणरूपान् मन्तुं वयं विश्वस्य केनापि मानेन आग्रहं कर्तुं न शक्नुमः। न कमपि एतदनुगुणम् अनुसर्तुं वक्तुं शक्नुमः। प्रश्नः तु सर्वथोचितः अस्ति, अपि च अहं मन्ये यत् वेदान् परमप्रमाणं मन्यमानैः प्रत्येकैः अपि जनविशेषैः अस्य युक्तिपूर्वकमुत्तरं देयमेव। लेखेऽस्मिन् अस्यैव प्रश्नस्य उत्तरप्रदानस्य प्रयासः क्रियमाणः वर्तते।

प्रश्नस्यास्य उत्तरदानात् प्राक् मदीयः एकः प्रश्नः वर्तते यत् दीपक-सिक्थवर्तिका-विद्युत्प्रभृतीनां विविधप्रकाशसाधनानाम् उपस्थितौ अपि प्रकाशार्थं सूर्यस्य कृते एव किमर्थम् अधिकं महत्त्वं प्रदीयते? इति। यदि सूर्यस्य प्रकाशे सूर्ये वा काचिद् विशेषता स्यात् तर्हि अस्माभिः अन्येषां प्रकाशानाम् अपेक्षया सूर्यप्रकाशस्य एव सर्वथाभावेन श्रेष्ठता स्वीकार्या भवेत्। सूर्यप्रकाशः किमर्थं श्रेष्ठः वर्तते? अस्मिन् विषये उपयोगितादृष्ट्या अस्माभिः विचारणीयं भविष्यति।

सूर्यस्य विशेषताः –

  1. एतद् सर्वसुलभमस्ति।
  2. सहजः अस्ति।
  3. अहानिकारकः वर्तते।
  4. भेदभावरहितः वर्तते।
  5. श्रमसाध्यः न वर्तते।

पञ्चैतानि ईदृशानि कारणानि सन्ति, येभ्यः सूर्यस्य प्रकाशः अन्येषां प्रकाशानाम् अपेक्षया सर्वश्रेष्ठः वर्तते। एतेषां कारणानां व्याख्या शीर्षकाणामभिधानेन स्वयमेव भवति। एवम्प्रकारेण एतादृशैः विशेषकारणैः युक्ताः वेदाः अपि न केवलं केषाञ्चिदेव श्रध्दालुजनेभ्यः एव धर्मस्य सर्वश्रेष्ठग्रन्थाः सन्ति अपितु मानवसमूहस्य कृते एव सर्वश्रेष्ठग्रन्थाः सन्ति।

वेदाः सर्वेभ्यः जाति-देश-समाजसम्बद्धेभ्यः मनुष्येभ्यः भेदभावरहित-समानोपदेशान् दिशावबोधान् कर्त्तव्यावबोधान् च प्रयच्छन्ति।

मित्रदृष्टिः –

दृते दृहं मा मित्रस्य मा चक्षुषा सर्वाणि भूतानि समीक्षन्ताम्।

मित्रस्याहं चक्षुषा सर्वाणि भूतानि समीक्षे। मित्रस्य चक्षुषा समीक्षामहे।।

यजु० 36/18

मां सर्वे मित्रदृष्ट्या पश्येयुः, अहमपि सर्वान् मित्रभावेन पश्येयम्। वयं सर्वे परस्परं मित्रदृष्ट्या पश्येम।

सर्वत्र अभयभावः –

अभयं मित्रादभयमित्रादभयं ज्ञातादभयं पुरो यः।

अभयं नक्तमभयं दिवा नः सर्वा आशा मम मित्रं भवन्तु।।

अथर्व० 19/15/6

अर्थात्, अस्माकं मित्रेभ्यः, शत्रुभ्यः, ज्ञातपुरुषेभ्यः, अज्ञातपुरुषेभ्यः, कस्माच्चिदपि भयं न स्यात्। अस्माकं कृते रात्रिः, समस्तदिशः च अभयाः सन्तु।

प्रेम –

अन्यो अन्यमभिहर्यत वत्सं जातमिवाघ्न्या।।

अर्थव० 3/30/1

वयं परस्परं तथा स्नेहं कुर्मः यथा गौः स्वनवजातवत्सेभ्यः स्नेहं करोति। अत्र कस्मैचिदपि व्यक्तिविशेषाय समाजविशेषाय वा इमे उपदेशाः न सन्ति, अपितु मानवमात्रस्य कृते वर्तन्ते।

सहचलनम्

सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम्।

देवा भागं यथा पूर्वे सञ्जानाना उपासते।।

ऋक्

० 10/191/2

मन्त्रेऽस्मिन् वेदः उपदिशति यत् त्वं राष्ट्रेण साकं चल, साकं वद, यूयं मनः अपि सङ्गतिपूर्वकं विचारं कुरुत। अर्थात् सर्वेऽपि राष्ट्रेण साकं मिलित्वा विचारं कुरुत। मिलित्वा कार्यं कुरुत। येन सर्वेभ्यः तेषां श्रमभागप्राप्तिः भवेत्।

समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम्।

समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि।।

ऋक्

० 10/191/3

प्रभुः उपदेशान् प्रददाति यत् अहं समानरूपेण तुभ्यं समस्तानि वस्तूनि प्रददन् अस्मि, परन्तु त्वं स्वपुरुषार्थं ज्ञानं च अनुसृत्य एव एतानि प्राप्तुं शक्नोषि। ज्ञानमपि समानं कार्यशक्तिः अपि समाना भवितव्या।

समानी व आकूतिः समाना हृदयानि वः।

समानमस्तु वो मनो यथा वः सुसहासति।।

ऋक्० 10/191/3

अर्थात् तव संकल्पशक्तिः, अध्यवसायः, हृदयम्, एवञ्च मनः सर्वमपि समानं स्यात्।

उक्तेषु त्रिष्वपि मन्त्रेषु राष्ट्राय भावनात्मकैकतायाः उपदेशं प्रभुः प्राददात्। सर्वे एकेन मनसा, सङ्कल्पेन च भूत्वा कार्याणि कुर्युः, अपि च स्वस्वभागान् कार्यानुसारं प्राप्नुयुः।

सह अशनम् (सहभोजनम्) –

केवलाघो भवति केवलादी।।

ऋक्० 10/117/6

अर्थात् यः मनुष्यः यज्ञोपासनाद्वारा न ईश्वरं तर्पयति, अपि च न मित्राणि तर्पयति, एवम् एकाकी धनोपयोगं कुर्वाणः जनः केवलं पापमेव भक्षयति। अत्र वेदाः उपदिशन्ति यत् मिलित्वा सेव्यताम् इति। तद्यथा –

सग्धिश्च मे सपीतिश्च मे……।।

यजु० 18/9

व्यावहारिकः उपदेशः –

अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः।

जाया पत्ये मधुमतीं वाचं वदतु शान्तिवान्।।

अथर्व० 3/30/2

कुटुम्बे अस्माकं कीदृशः व्यवहारः स्यात्, अस्मिन् विषये वेदः उपदिशति यत् पुत्रः पितुः अनुव्रतः स्यात् माता शान्ता, पवित्रमनस्विनी स्यात्, एवञ्च पत्नी पत्युः कृते सर्वदा सुभाषिणी स्यात्।

संयमः (ब्रह्मचर्योपदेशः) –

ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत।

इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत्।।

अथर्व० 71/5/19

ब्रह्मचर्यस्य तपोबलेन देवाः विद्वान्सः पुरुषाः च मृत्युम् अपि वशीकुर्वन्ति। अर्थात् मृत्युञ्जयाः भवन्ति। निश्चयेन एव इन्द्रः स्वब्रह्मचर्यबलेन प्रजाभ्यः स्वराष्ट्रे स्वर्गसमं सुखं प्रददाति।

ब्रह्मचर्येण तपसा राजा राष्ट्रं विरक्षति।

आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिच्छते।।

अर्थव० 11/5/18

अत्र एकस्मिन् एव मन्त्रे शासकाय शिक्षकाय च उपदेशः प्रदत्तः अस्ति यत् संयमीपुरुषः एव योग्यः प्रशासकः कुशल शिक्षकः च भवितुं शक्नोति। आनेन एतदपि ध्वनितः भवति यत् व्यभिचारिजनः न तु कुशलप्रशासकः भवितुं शक्नोति न चापि कुशलशिक्षकः इति। यस्मिन् राष्ट्रे समाजे वा शिक्षकाः शासकः च द्वावपि संयमिनौ भविष्यतः, तत्र सर्वाः अपि व्यवस्थाः स्वतः एव सुव्यवस्थिताः भविष्यन्ति। सर्वे प्राणिनः सुखिनः भविष्यन्ति। न केवलम् एतावद् अपि तु सत्यस्य महत्त्वं जीवने कियत् अस्ति इति वेदेन एवं कथितमस्ति –

सत्येनोत्तभिता भूमिः।

अथर्व० 14/9/1

पृथिवी सत्यबलेन अवस्थिता वर्तते। अत्र वेदवाक्येन एतद् प्रकटितं यत् व्यवहारे असत्यस्य आगमनेन अस्मदीया जीवनधारारूपिणी पृथिवी अर्थात् क्रियाकलापाः आधारहीनाः अवलम्बनहीनाः च भविष्यन्ति। यतोहि सत्यस्य अभावे परस्परं विश्वासः नष्टः भविष्यति, येन परस्परं व्यवहारः एव सिद्धः न भवति। एतेन समग्रमपि वातावरणं सुखविहीनम् अशान्तञ्च भविष्यति। एवम्प्रकारेण वेदानां कश्चनापि उपदेशः एकाङ्गी नास्ति, अपितु सार्वभौमं सार्वकालिकञ्च अस्ति। एषाम् उपदेशाः जाति-वर्ग-सम्प्रदायविशेषाय च न वर्तते। वेदाः मानवानां प्राणिमात्राणां च कल्याणाय आचारस्य निर्देशान् कुर्वन्ति। तथा च दिव्यकर्मभिः सन्मानवः भवितुं प्रेरणां प्रयच्छन्ति।

मनुर्भव जनया दैव्यं जनम्।।

ऋक्

० 10/53/6

एवमेव वेदेषु विश्वसमुदायस्य कृते कुटुम्बवत् दर्शनस्य उपदेशः प्रदत्तः वर्तते। यस्यानुसारं समस्तमपि चराचरं प्राणिजगत् एकस्यैव नीडस्य निवासीवत् भवितव्यं वर्तते –

यत्र विश्वं भवत्येकनीडम्।

यजु० 32/8

वर्तमाने मानवकुलस्य विपद्रूपेण प्रादुर्भवन्तं पर्यावरणप्रदूषणमपि वेदाः गभीरतया स्वीकुर्वन्ति। अपि च विश्वपर्यावरणं सततसन्तुलितम् अभिरक्षणाय मानवः मुहुर्मुहुः जागरितः वर्तते। अनेकैः मन्त्रैः पर्यावरणं सन्तुलनाय जलवायु-वृक्ष-वनस्पति-प्राकृतिकजीवनरक्षायै भूरिशः प्रार्थना कृता वर्तते –

द्यौः शान्तिः अन्तरिक्षं शान्तिः पृथिवी शान्तिरापः …..।।

यजु० 36/18

प्राकृतिकपदार्थेषु देवत्त्वकल्पना एषां सुरक्षायाः अनिवार्यतां प्रकटयति। यतोहि वेदाः एवं मन्वते यत् एषां रक्षायामेव प्राणिसङ्कुलस्य रक्षाभावः निहितः वर्तते इति।

एवम्प्रकारेण वयं पश्यामः यत् यथा सूर्यस्य प्रकाशः सर्वप्रकाशेषु श्रेष्ठः वर्तते तथा एव वेदानां ज्ञानरूपी प्रकाशः अपि विश्वस्य समस्त-सम्प्रदायग्रन्थेषु श्रेष्ठः वर्तते। अतः वेदाः एव प्राणिसङ्कुलस्य ग्रन्थः वर्तते। एते उपदेशाः व्यष्टिपरकाः न वर्तते अपितु समष्टिपरकाः वर्तन्ते। अतः येन प्रकारेण अग्नि-जल-वायु-सूर्यादयः सर्वेषाम् सन्ति तद्वत् वेदज्ञानमपि सर्वेषाम् अस्ति। अन्ततः एकस्मिन् दिने विश्वस्य सर्वमानवैः वेदाः धर्मग्रन्थत्वेन स्वीकरणीयाः भविष्यन्ति। अयमेव विश्वशान्तेः एकमात्रोपायः वर्तते।

अनुवादकः – सत्यदेवः

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​