संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » भारतस्य वैज्ञानिकपरम्परा

भारतस्य वैज्ञानिकपरम्परा

indian sciance 3

भारतस्य वैज्ञानिकपरम्परा

  लेखकः वि. नागराजः

नवीयसंसकृतेः विशेषकासः दृश्यते स्म प्राचीने अस्मत्-पूर्वजाः लौकिकेषु तात्तिवकेषु च क्षेत्तेषु बहुधा चिन्तंन कृतवन्तः आसन् । भारते याद्द्शं चिन्तनं प्रवृत्तं ताद्द्शं चिन्तंन प्रायः जगति अन्यत्र न प्रवृत्तम् । अन्यत्र संसकृतेः बीजावापः अपि यदा न जातः आसीत् तदा भारते संस्कृतिः सुविकसिता आसीत् । तस्याः संस्कृतेः अनुगुणं व्यवहरन्तः स्वजीवनम् सार्थक च कृतवन्तः आसन् अत्रत्याः । किन्तु दौर्भाग्यं नाम ताद्द्शस्य उत्कृष्टचिन्तनस्य समग्रः भागः इदानीं न उपलभ्यते । धार्मिके तात्त्विके च क्षेत्रे यत् चिन्तंन प्रवृत्तं तस्य कश्चन भागः तु प्राथान्येन अप्राप्तप्रायम् एव अस्ति इति वदामः चेत् न तत्र अतिशयोक्तिः । वैज्ञानिकक्षेत्रीयाः ये अत्पल्पाः अंशाः प्राप्ताः ते अपि प्रचाराभावात् अज्ञाताः एव तिष्ठन्ति लोके ।

          प्रथमे द्वितीये च क्रिस्तशके भारते भौतिकशास्त्रस्य बह्वयः शाखाः- रसायनशास्रं,खगोलशास्त्रं, गणितं, वनस्पतिशास्त्रम् इत्यादयः- विकासं गताः  आसन् एव । न केवलं ताः प्रगतिम्, अपि तु प्रगतेः पराकाष्ठाम् एवं प्राप्तवत्यः आसन्  । तथापि दौर्भाग्यवशात् एवं हि श्रूयते यत् विज्ञानस्य प्रारम्भः विकासः च पश्चिमदेशेषु जातः इति ! अहो विसङ्गतिः !!

          जना अपि एताद्द्शेषु मिथ्यावचनेषु विश्वासं कुर्वन्तः द्दश्वन्ते । अस्माकं विद्यासंस्थाःअपि एतम् एव मिथ्यांशं बोधयन्ति । वैज्ञानिकक्षोत्रे भारतीयं चिन्तनं यत् अस्ति तत् आधुनिकैः अधिकाधिकं ज्ञायेत । तदा एव एस्मिन् आदरः वर्धते । प्रकृतः लेख तत् भारतीयं चिन्तनं स्थूलतया परिचाययति ।

गणितम्

          भारतीयगणितज्ञानस्य आरम्भः अस्माभिः द्रष्चव्यः चेत् वेदकालपर्यन्तम् अनुधावनं करणीयम् । वेदेषु तत्कालिकेषु अन्यग्रन्थेषु अन्यग्रन्थेषु च गणितीयानाम् अंशानाम् अल्लेखः विशेषचः दृश्यते । समग्रे विश्वे पण्डितण्डते एषा मान्यता अस्ति यत् बहूनां गणितीयांशानाम् आरम्भः भारते एव जातः इति । जनाः बहूनां गणितीयविषयाणां ज्ञानं भारतात् एव प्राप्तवन्तः द्द्श्यन्ते । तत्रापि अङ्कगणितक्षेत्रे, बीजगणितक्षेत्रे, भूमितिक्षेत्रे, त्रिकोण-मितिक्षेत्रे च बहूनि अपूर्वाणि मूलभूतानि अनुसन्धानानि भारते एव कृतानि आसन् ।

          इदानीं दशमाङ्कपद्धपिः लोके व्यवहारे अस्ति । एतस्यां पद्धतौ १-९ अङ्काः शून्यं च उपयुज्यन्ते । स्थानकारणतः अङ्कानां मूल्ये परिवर्तनम् अपि अङ्गीक्रियते । एषा दशमाभङ्कपद्धतिः द्विसहस्त्राधिकवर्षेभ्यः पूर्वम् एव भारते आसीत् । अङ्कानां क्रमिकविकासः कथं जातः इत्येतम् अंशम् अधस्तनं चित्र ज्ञापयति ।

          क्रि. श. ९०० पर्यन्तम् एषा अङ्कपद्धपिः अरबजनैः युरोपीयजनैः वा न ज्ञाता आसीत् । अरबदेशीयः गणितविद्वान् अल्खवारिस्मी ( A I – Khowarizmi ) ( क्रि. श. ७८०- ८५० ) ऐदम्प्राथम्येन स्वकीये पुस्तके एतान् हिन्दु-अङ्कान् , स्थानाधारितमूल्यनिश्चयक्रमम् , एतदाधारितान् अन्यान् बहून् गणितप्रक्रियांशान् च उपयुक्तवान् द्द्श्यते । तदनन्तरकाले एते सर्वे अंशाः लोके सर्वत्र प्रसूताः अभवन् । तत्कारणतः पश्चिमयुरोपप्रदेशेषु एतस्य गणितीयविचारस्य प्रचारः जातः । अतिप्राचीनः युरोपीयः हस्तलिखितग्रन्थः  नाम – ‘CONDEX VIGILANUS’ इति । एषः अल्बेल्डो-आश्रमसम्बन्द्धः । एतस्मिन् ग्रन्थे १-९ अङ्कानाम् अल्लेखः कृतः दृश्यते । तत्रैव एतान् अङ्कान् अधिकृत्य एवं लिखितं द्दश्यते –

          गणितीयचिह्नानाम् उपयोगसमये अस्माभिः एतत्सम्बन्धितया एतत् अपि ज्ञातव्यं यत् प्राचीनहिन्दुजनानाम् अतिव्यापिका कुशाग्रबुद्घिता आसीत् इति । गणनकलाविषये, भूमितिक्षेये, अन्येषु स्वतन्त्रशास्त्रेषु च अन्यराष्ट्रजनाः हिन्दुनाम् अनुयायिनः ,सन्ति । ( अग्रगण्याः तावात् हिन्दवः एव ) नवानाम् अङ्कानाम् उपयोगः, स्थानबलात् अङ्कानां मूल्यस्य निश्चयः इत्यादयः अंशाः अत्र प्रमाणभूताः सन्ति ।

शून्यम्

          अङ्कस्थानाधारिता मूल्यनिश्चयपद्धतिः एव शून्यस्य अन्वेषणे मूलम् ।

‘ZERO’ इत्येतत् कस्यचित् चिह्नस्य नाम । तच्च चिह्नं ‘नास्तित्यं ‘द्योतयति । संस्कृतभाषायां नास्तित्वं सूचयति ‘शून्य’शब्दः । ‘झिरो’ इत्यस्य मूलं तावत् शून्यशब्दः एव । संस्कृतभाषीयः एषःशून्यशब्द एव । संस्कृतभाषीयः एषः शून्यशब्दः अरबभाषां प्रविश्य निर्गत्य ल्याटिन् भाषां चापि प्रविश्य निर्गत्य ‘झीरो’ इति नामान्तरं प्राप्नोत् । तद्यथा-

संस्कृतम्                 अरेबिक्                  ल्पाटिन्

शून्यम्                    सिफर्                     झिप्रे/ सिफ्रे              झीरो

Shunya                 Sifer                     Ziffre/Ciffre        Zero/Cipher

          दशकादिस्थलाधारितायाः मूल्याङ्कपद्धतेः निर्माणात् उपयोगात् च बह्वयः गणितप्रक्रियाः निर्मिताः अभवन् । अद्यापि ताः रक्षिताः उपयुज्यमानाश्च सन्ति ।

वर्गमूलं धनमूलं च

          अपेक्षितसंख्यायाः वर्गमूलस्य घनमूलस्य च प्राप्त्यर्थम् आधुनिके गणिते काचित् पद्धतिः अनुस्त्रियते । वस्तुतः एषा पद्धतिः पञ्चमशतकीयेन(४९९ A D) आर्यभटेन अन्विष्चा आसीत् ।

आर्यभटीयः नियमः एवम् आसीत् –

          भाग् हरेद्वर्गात्रित्यं द्विगुणेन वर्गमूलेन ।

          वर्गागद्वर्गे शुद्धे लब्धं स्थानान्तरे मूलम् ।। इति ।

          एपा पद्धतिः १६१३ वर्षपर्यन्तं युरोपीयजनैः अज्ञातपूर्वा एव आसीत् । एवं सर्वप्रथमं बहुभ्यः वर्षेभ्यः पूर्वम् एव भारीतयेन अन्विष्टायाः एतस्याः पद्धते  विषये इदानीम् अपि एवं बोध्यते यत् एषा पद्धतिः विदेशीयैः अन्विष्टा इति । वस्तुस्थितिं जानद्धिः अपि अस्माभिः तत्र विश्वासः क्रियते ! अहो अभिमानशून्यता अस्माकम् !

          त्रैराशिकनियमः व्यस्तत्रैराशिकनियमञ्च अङ्कगणितक्षेत्रस्य सुवर्ण-नियमत्वेन अङ्गीक्रियते । तै च नियमो भारते पूर्वकाले एव व्यवहारे उपयुज्यमानौ आस्ताम् । अतः बहवः पण्डिताः भावयन्ति यत् एतौ नियमौ अपि भारतात् एव पञ्चिमदेशान् प्रति गतौ स्याताम् इति ।

बीजगणितम्

          बीजगणितस्य आरम्भः वेदाङ्गभूतेषु शुल्बसूत्रेषु एव अस्ति इते ज्ञायते । रूपरेखायाः समाधानं यौगपद्यिक समीकरणं इत्येचौ उभौ अपि विषयौ भारतियबीजगणितक्षेत्रे चर्चितौ एव । विभिन्नप्रकारिकाणं यज्ञवेदीनां निर्माणसमये एतत्सम्बद्धाः निषयाः चर्चिताः । यज्ञवेदीनिर्मीणकार्यद्वारा बीजगणितक्षेत्रीयाः बह्वयः प्रक्रियाः विकासं गताः द्द्श्यन्ते । ब्रह्मगुप्तकाले बीदगणितं गणितक्षेत्रे स्वतन्त्रविषयरुपेण प्रवृद्धम् अभवत् । तच्च कुट्टकगणितं, बीजगणितम्, अव्यक्तगणितम् इत्यादिभिः नामभिः व्यवह्रियते स्म ।

वर्गींयसमीकरण्

          A + bx+=0- इत्येतादृशानां वर्गीयसमीकरणानां समाधानम् आर्यभटः (प्रथमः)

, ब्रह्मगुप्तः इत्यादयः जानन्ति स्म । वर्गींयसमीकरणस्य समाधानं प्राप्तुम् इदानीं या प्रक्रिया आश्रीयते सा श्रीधरार्येंण ( दशमे शतके स्थितेन ) दत्ता  अस्ति । तदीयः श्लोकः तावत् –

          चचुराहतवर्गसमैः उक्तौ पक्षौ ततो मूलम् ।। इति ।

क्रमयोजनं संयोचनं च

          क्रमयोजनसम्बद्धा संयोजनसम्बद्धा च पद्धतिः बहुप्राचीनकालात् एव भारते उपयुज्यमाना आसीत् । एतत् पद्धतिद्वयम् आधिक्येन काव्यनिर्माणे, वास्तुशास्वान्वये, सङ्गीतशास्त्रे, औषधक्षेत्रे च उपयुज्यते स्म ।

N Cr = n(n+1) ( n-2)……(n-r+1)

                   1 2 3 ……..r

इत्येतस्य साधारणनियमस्य निर्माणं वराहमिहिराचार्येण कृतं, यञ्च आचार्यः नवमे शतके कर्णाटकराज्ये गणितज्ञत्वेन सुविख्यातः आसीत् ।

वराहमिहिराचार्यः पूर्वोक्तं नियमम् एवं श्लोकन विवृणोति –

          एकोद्येकोत्तरतः पदमूर्ध्वाधर्यतः क्रमात्क्रमशः ।

          स्थाप्य प्रतिलोमघनं प्रतिलोमघनेन भाजितं सारम् ।। इति ।

ज्यामितिः

          वेदेकाले विभिन्नानां यज्ञवेदीनां निर्माणे क्वचित् समस्याः उत्पद्यन्ते स्म ।   तत्काले समस्यानिवारणार्थं ज्यामितेः उपयोगः क्रियते स्म । तत्कारणतः बहवः ज्यामितिक्षेत्रसम्बद्धाः विषयाः निरूपिताः भवन्ति स्म ।

बोधयनसूत्रम्

          पैथागोरससिद्धान्तनाम्ना इदानीं यः नियमः व्यवह्रियते  स च पैथागोरसात्  सहस्त्राधिकवर्षेभ्यः पूर्वम् एव भारतीयैः निर्मितः आसीत्  । महामुनिः बोधायनः कात्यायनश्च  एतं नियमं प्रतिपाद्य यथायोग्यं विवरणम् अपि दत्तवन्तौ द्द्श्येत् ।

          बोधायनः एवं वदति-

          “दीर्घचतुरस्त्रस्याक्ष्णया रज्जुः पार्श्वमानी तिर्यग्मानी यत्पृथग्भूतै कुरुतः तदुभयं करोति” इति ।

          विभिन्नाकारिकाणां यज्ञवेदीनां निर्माणे एतस्य सिद्धान्तस्य उपयोगः कृतः द्द्श्यते । चतुरस्त्रवेदी, समकोणवेदी, समद्विभुजाकृतिवेदी, विषमचतुर्भुजाकृतिवेदी इत्यादीनां निर्माण क्रियते स्म अस्मत्पूर्वजैः ।

 मूल्यम्

          पै () इत्यनेन नाम्ना निर्दीश्यमानस्यय  मूल्यं प्रथमेन आर्यभटेन निर्णीतम् आसीत् । तेन निर्णितं मूल्यं ३. १४१६ अस्ति । आधुनिकं मूल्य तावत्   =  ३. १४१६९२६ इति ।

एतद्विषये आर्यभटीयः श्लोकः एवम् अस्ति –

          चतुरधिकं शतम् अष्टगुण

                   द्वाष्ष्टिस्तथा सहस्त्राणाम् ।

          आयुतद्वयविष्कम्भस्यासन्नो वृत्तपरिणाहः ।।

त्रिकोणितिः

          भारतेन विश्वाय दत्तेषु विषयेषु अन्यतमः अपूर्वः विषयः नाम ‘त्रिकोणमितिः’ । त्रिकोणमितिक्षेत्रे भारतीयैः ज्या, कोचिज्या इति शबदद्वयं यत् उपयुज्यते स्म तदेव यूरोपीयभाषायां सैन्, कोसैन् इति निर्दिश्यमानं सत् व्यवहारक्षेत्रे इदानीं द्द्श्यते । प्रथमेन आर्यभटेन ज्याकोष्टकं रचितम् आसीत्, यत्र च ०-९० ०परिमितेः क्षेत्रे विद्यमानस्य  गोलखण्डस्य रेखाः निर्दीष्टाः आसन् । भारतीयखगोलशास्त्रे ग्रहाणां स्थानस्य निश्चयसमये त्रिकोणमितेः बहवः अशाः उपयुज्यन्ते स्म ।

थातुशास्त्रम्

          भारते येषु उत्कृष्टा सिद्धिः प्राप्ता आसीत् ताद्द्शेषु अन्यतमं क्षेत्रम् अस्ति धातुशास्त्रक्षेत्रम् । वैदिकसाहित्ये सुवर्णं, रजतं, ताम्रं, त्रपुः, अयः इत्यादीनां धातूमाम् उल्लेखः कृतः अस्ति । तेषां विविधाः उपयोगाश्चापि वर्णिताः सन्ति । सुवर्णं कण्ठहारकङ्कणादीनाम् आभरणानां निर्माणे विशेषतः उपयुज्यते स्म । मोहञ्जोदारो-उत्खनने महता कौशलेन निर्मितानि सुन्दराणि सुवर्णाभरणानि प्राप्तानि

सन्ति । विज्ञानिनः अभिप्रयन्ति यत् एतानि आभरणानि ५००० वर्षेभ्यः पूर्व निर्मितानि आसन् इति । एवं हि श्रूयते यत् कर्णाटकस्थाया ‘हट्टी’– प्रदेशस्थायां सुवर्णखन्यां २००० वर्षेभ्यः पूर्वम् एव सुर्वर्णें प्राप्यते स्म इति ।

          ताम्रस्य, तज्जन्ययोः कांस्य- पित्तलयोः च उपयोगः वेदकालात् एव क्रियते स्म । ताम्रमय्यः कांस्यमय्यः च प्रतिमाः बहुधा निर्मीयन्ते स्म प्राचीने काले । अस्मत्पूर्वजाः जानन्ति स्म यत् एते धातसः उत्कृष्टप्रतिमादिनिर्माणे उपकारकाः इति, एतैः धातुभिः  निर्मिताः प्रातिमादयः चिरकालं स्थास्यनति इति च ।

          बिहारराज्ये सुल्तानगञ्ज्प्रदेशे जीर्णे कस्मिंञ्चित् बुद्धालये भगवतः बुद्धस्य विग्रहः

बुद्धस्य विग्रहः (क्रिं. श. ५०० वर्षे निर्मितः ) प्राप्तः अस्ति । विग्रहस्य औन्नत्यं ७.६, भारश्च टन्परिमित स्यात्  । एतस्य वैशिष्टयं नाम एतदीयं धातुनिर्मितं वस्त्रावरणं पारदर्शकम् अस्ति ! ताम्रधातुशास्त्रक्षेत्रे भारतेन साधितायाः अत्याश्चर्यकर्याः प्रगतेः द्योतकः अस्ति एषः विग्रहः ।

अयः

          अयसः ( Iron) श्वेतायसः ( Steel )  क्षेत्रे अपि भारतस्य प्रगतिः अल्लेखार्हा एव अस्ति । देहलीनगरे ‘महरोली’ इत्यत्र स्थितः अयोमयः स्तम्भः अत्र उदाहरणम् । प्रसिद्धः एषः अयःस्तम्भः तत्कालिक्याः उत्कृष्टकार्यशैल्याः द्योतकः अस्ति । एषः स्तम्भः ९६०० वर्षेभ्यः पूर्वम् एव निर्मितः । किन्तु सः दीर्घकालिकान् वातावरणपरिणामान् सहमानः अल्पाम् अपि हानिन् अप्राप्नुवन् यथापूर्वम् अक्षतरूपेण तिष्ठन् भारतस्य श्रेष्ठतां ख्यापयति ।

          उत्तमजातीयस्य चित्रायसः निर्माणे दक्षिणभारतं सुविख्यातम् । चित्रायो रूपेण अयसः परिवर्तनार्थं प्राचीनैः अन्धमूषापद्धतिः ( बकयन्त्रम् ) उपयुज्यते स्म । अयसः द्द्ढीकरणे अङ्गाराम्लस्य प्राधान्यं भवति इति प्राचीनाः लोहकाराः जानन्ति स्म । अतः ते पिहितस्य मूत्तिकाबकयन्त्रस्य अन्तः अयसः लघुखण्डान् स्थापयित्वा तत्र अङ्काराम्लम् अपि संयोज्य उष्ठीकुर्वन्ति स्म । ततः चित्रायसः निर्माणं भवति स्म ।

          प्रसिद्धस्य ‘दमास्कम् ‘खड्गस्य अयसः नाम ‘वूटूस’ इति ।  एषः शब्दः कन्नडभाषायां स्थितस्य ‘उक्कु’ इत्येतस्य अपभ्रंशः एव इति भाषाशस्त्रिणां निर्णयः अस्ति ।

कुप्यातुः ( ZINK )

          खनिजधातुभ्यः कुप्यातोः प्राप्तर्थं या सन्धानपद्धतिः अनुस्त्रियते स्म तस्याः कारणतः भारतं निश्चयेन अभिनन्दपात्रीभूतम् अस्ति । राजस्थान राज्ये क्रि. पू. ५०० वर्षे स्थितकाः कुप्यातुखन्यः समासादिताः सन्ति । किन्तु खनिजेभ्यः कुप्यातोः प्राप्तर्थम् अपेक्षितं तन्त्रज्ञानं १८ शतकपर्यन्तम् अपि युरोपदेशेषु अज्ञातम् एव आसीत् । १७४८ तमे वर्षे विलियं चाम्मियन् युरोपदेशेषु एतस्याः पद्धतेः परिचयं कारितवान्, व्यवहारपथम् आनीतवान् च ।

          एवम् अस्मत्प्राचीनैः विज्ञानस्य विविधक्षेत्रेषु बहुविधसिद्धयः सम्पादिताः सन्ति  । तत्रापि भारतीयानां वैशिष्टयं नाम ते आधुनिकोत्कृष्ट साधनानाम् अभावे सत्यपि. पाश्चात्त्येषु एताद्द्शक्षेत्रेषु प्रवेशम् एव कर्तुम् असमर्थेषु, स्वप्रतिभाविलासेन अपूर्वान् बहून् अंशान् निर्दुष्टतया प्रकटितवन्तः तैः उक्तानाम् अंशानां वैज्ञानिकता निर्दुष्टता च इदानीम् अपि अक्षुण्णा एव अस्ति । अस्म्त्प्राचीनैः साधितायाः अपूर्वसिद्धे कारणतः किम् अस्माभिः अभिमानः प्राप्तव्यः नास्ति ? प्राचीनानां सिद्धयः किं प्रचुरीकरणीयाः न सन्ति ? प्राचीनानां विषये यथायोग्यम् आदर किं प्रदर्शनीयः नास्ति ?

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​