संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » श्रव्यावली » स्तोत्राणि » शिवस्तोत्रम्

शिवस्तोत्रम्

1.श्री शिवाष्टकम्


http://www.vedamantram.com/audio/shivastotram.mp3

अथ श्रीशिवाष्टकम्

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम् ।
भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमीशानमीडे ॥ १॥

गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् ।
जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शम्भुमीशानमीडे ॥ २॥

मुदामाकरं मण्डनं मण्डयन्तं महामण्डलं भस्मभूषधरन्तम् ।
अनादिह्यपारं महामोहहारं शिवं शङ्करं शम्भुमीशानमीडे ॥ ३॥

वटाधोनिवासं महाट्टाट्टहासं महापापनाशं सदासुप्रकाशम् ।
गिरीशं गणेशं महेशं सुरेशं शिवं शङ्करं शम्भुमीशानमीडे ॥ ४॥

गिरिन्द्रात्मजासंग्रहीतार्धदेहं गिरौ संस्थितं सर्वदा सन्नगेहम् ।
परब्रह्मब्रह्मादिभिर्वन्ध्यमानं शिवं शङ्करं शम्भुमीशानमीडे ॥ ५॥

कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोजनम्राय कामं ददानम् ।
बलीवर्दयानं सुराणां प्रधानं शिवं शङ्करं शम्भुमीशानमीडे ॥ ६॥

शरच्चन्द्रगात्रं गुणानन्द पात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।
अपर्णाकलत्रं चरित्रं विचित्रं शिवं शङ्करं शम्भुमीशानमीडे ॥ ७॥

हरं सर्पहारं चिता भूविहारं भवं वेदसारं सदा निर्विकारम् ।
श्मशाने वसन्तं मनोजं दहन्तं शिवं शङ्करं शम्भुमीशानमीडे ॥ ८॥

स्तवं यः प्रभाते नरः शूलपाणे पठेत् सर्वदा भर्गभावानुरक्तः ।
स पुत्रं धनं धान्यमित्रं कलत्रं विचित्रं समासाद्य मोक्षं प्रयाति ॥ ९॥

॥ इति शिवाष्टकम् ॥

2.अर्धनारीश्वरस्तोत्रम्


http://www.vedamantram.com/audio/Ardhanaareesvara.mp3

॥ अर्धनारीश्वरस्तोत्रम्  ॥

चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ १ ॥

कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय ।
कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ २ ॥

झणत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय ।
हेमाङ्गदायै भुजगाङ्गदाय नमः शिवायै च नमः शिवाय ॥ ३ ॥

विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ ४ ॥

मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय ।
दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥ ५ ॥

अम्भोधरश्यामलकुन्तलायै तडित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ ६ ॥

प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय ।
जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ ७ ॥

प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥ ८ ॥

एतत्पठेदष्ठकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥ ९ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ अर्धनारीश्वरस्तोत्रम् संपूर्णम् ॥

3.निर्वाणपञ्चकम्

http://www.vedamantram.com/audio/Nirvanashatkam.mp3

॥निर्वाणपञ्चकम्॥
मनो बुद्ध्यहंकारचित्तानि नाहम् न च श्रोत्र जिह्वे न च घ्राण नेत्रे
न च व्योम भूमिर् न तेजॊ न वायु: चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

न च प्राण संज्ञो न वै पञ्चवायु: न वा सप्तधातुर् न वा पञ्चकोश:
न वाक्पाणिपादौ न चोपस्थपायू चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

न मे द्वेष रागौ न मे लोभ मोहौ मदो नैव मे नैव मात्सर्य भाव:
न धर्मो न चार्थो न कामो ना मोक्ष: चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

न पुण्यं न पापं न सौख्यं न दु:खम् न मन्त्रो न तीर्थं न वेदा: न यज्ञा:
अहं भोजनं नैव भोज्यं न भोक्ता चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

न मृत्युर् न शंका न मे जातिभेद: पिता नैव मे नैव माता न जन्म
न बन्धुर् न मित्रं गुरुर्नैव शिष्य: चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

अहं निर्विकल्पॊ निराकार रूपॊ विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम्
न चासंगतं नैव मुक्तिर् न मेय: चिदानन्द रूप: शिवोऽहम् शिवॊऽहम् ॥

4.शिवमानसपूजा

http://www.vedamantram.com/audio/Sivamanasapuja.mp3

             शिवमानसपूजा

रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरं
नानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।
जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा
दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥१॥
सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसं
भक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं
ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥२॥
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं
वीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।
साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं मया
सङ्कल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥३॥
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थितिः ।
सञ्चारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो
यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥४॥
करचरणकृतं वाक्कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वापराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शम्भो ॥५॥

5.शिवमङ्गलम्

http://www.vedamantram.com/audio/mangalam.mp3

अत्र एतस्य गीतस्य पाठ्यम् उपलब्धं नास्ति । यदि भवान्/भवती शक्नोति चेत् पाठ्यस्य उपलब्धतायाम् अस्माकं साहाय्यं करोतु।
साहाय्यार्थं अत्र सम्पर्कं करोतु – सम्पर्क-सूत्रम् sanskritvishvam@gmail.com

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​