संस्कृतविश्वम्
×

अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।


अनेक शास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्ना: ।
यत् सारभूतं तदुपासितव्यं हंसो यथा क्षीरमिवाम्भुमध्यात् ।।
पढने के लिए बहुत शास्त्र हैं और ज्ञान अपरिमित है| अपने पास समय की कमी है और बाधाएं बहुत है। जैसे हंस पानी में से दूध निकाल लेता है उसी तरह उन शास्त्रों का सार समझ लेना चाहिए।


  • मुखपृष्ठः
  • चलचित्रावली
    • गीतानि
      • देशभक्तिगीतानि (15)
      • बालगीतानि (9)
      • प्रेरकगीतानि (3)
      • अनुवाद गीतानि (18)
      • कार्टूनगीतानि (3)
      • विशिष्ट-गीतानि (9)
    • नाटकानि
      • बालनाटकानि (6)
      • युवनाटकानि (8)
      • हिन्दीसंस्कृतनाटकम् (1)
    • कथावली (27)
    • चलच्चित्राणि (10)
    • मन्त्रावली
      • वेदः
        • ऋग्वेदः
          • मूलम् – शाखाः (6)
        • यजुर्वेदः
          • मूलम् – शाखाः (19)
        • सामवेदः
          • मूलम् – शाखाः (4)
        • अथर्ववेदः
          • मूलम् – शाखाः (2)
      • मन्त्राः
        • सरस्वतीमन्त्रः (2)
        • गायत्रीमन्त्रः (2)
        • मृत्युञ्जयमन्त्रः (2)
      • उपनिषद्
        • ईश (2)
        • उपनिषद् (2)
        • उपनिषद् (अष्टादश ) (2)
      • सूक्तम्
        • आयुष्यसूक्तम् (2)
        • गणेशसूक्तम् (3)
        • गोसूक्तम् (2)
        • दुर्गासूक्तम् (5)
        • दूर्वासूक्तम् (3)
        • नक्षत्रसूक्तम् (30)
        • नवग्रहसूक्तम् (4)
        • नासदीयसूक्तम् (3)
        • नारायणसूक्तम् (4)
        • नीलासूक्तम् (2)
        • पवमानसूक्तम् (3)
      • यज्ञः (2)
      • कर्मकाण्डम् (2)
    • स्तोत्रावली
      • देवीस्तोत्राणि
        • कालीसहस्रनामस्तोत्रम् (1)
        • ललितासहस्रनामस्तोत्रम् (2)
        • श्रीदुर्गासप्तशती स्तोत्रम् (2)
        • सरस्वती वन्दना (4)
        • सरस्वती स्तुति (2)
        • सरस्वतीस्तोत्रम् (2)
      • श्रीराम स्तोत्राणि (2)
      • गणेशः स्तोत्राणि (2)
      • विष्णु स्तोत्राणि (2)
      • शिवः स्तोत्राणि (1)
      • गुरु स्तोत्रम् (2)
      • नवग्रहस्तोत्रम् (2)
      • विशिष्टम् (3)
    • विविधाः
      • शिक्षणम्
        • वेदपाठशिक्षणम् (4)
        • वैदिकगणितम् (6)
        • संस्कृतपाठशिक्षणम् (9)
        • संगणक शिक्षणम् (5)
        • सचित्र-शब्दार्थ-शिक्षणम् (28)
      • संस्कृत-शास्त्र-शिक्षणम्
        • व्याकरणम् (10)
        • न्यायः (2)
        • वेदान्तः (2)
      • संस्कृतसम्भाषणम् (10)
      • संस्कृतग्रामपरिचयः (2)
      • संस्कृतिः – संस्कारः (9)
  • श्रव्यावली
    • वेदमन्त्राः
      • मन्त्राः
      • उपनिषत्मन्त्राः
      • सूक्तानि
    • स्तोत्राणि
      • देवीस्तोत्रम्
      • विष्णुस्तोत्रम्
      • शिवस्तोत्रम्
    • गीतानि
      • देशभक्तिगीतानि
      • बालगीतानि
      • युवगीतानि
      • सरस्वती वन्दना
    • शिक्षणम्
      • शास्त्राणि
        • वेदपाठशिक्षणम्
        • साहित्यशास्त्रम्
        • व्याकरणशास्त्रम्
        • न्यायशास्त्रम्
      • कथाः
      • भाषणानि
    • संकीर्तनम्
  • चित्रकोणः
    • चिह्नेषु ध्येयानि
    • मानचित्राणि
    • कायचित्राणि
    • डाक-टिकट चित्राणि
    • देवचित्राणि
    • विविधानि
  • शब्दकोशः
    • वर्गानुसारी
    • भाषानुसारी
    • शास्त्रीयः
    • सचित्रकोशः
  • तन्त्रांशः
    • दूरवाणी तन्त्रांंशः
    • अक्षरविन्यासकः
    • अन्वेषकः
    • शिक्षात्मकः
    • संसाधकः
    • विश्लेषकः
  • शैक्षणिकम्
    • पाठ्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • व्याकरणम्
      • निबन्धाः
    • दृश्यशिक्षणम्
      • संस्कृतसम्भाषणम्
      • विद्यालयीयपाठ्यक्रमः
      • व्याकरणम्
        • वैयाकरणसिद्धान्तकौमुदी
          • सन्धिप्रकरणम्
          • समासप्रकरणम्
          • कारकप्रकरणम्
      • वेदान्तः
      • न्यायः
    • श्रव्यशिक्षणम्
      • व्याकरणम्
        • वै.सि.कौमुदी(पाठनम्-आचार्यजयकृष्णः)
          • सन्धिप्रकरणम्
          • कारकप्रकरणम्
          • समासप्रकरणम्
    • प्रहेलिका
  • प्रश्नमञ्चः
1

भवान् अत्र अस्ति » मुखपृष्ठ » भ्रातृभावनायाः

भ्रातृभावनायाः

raksha bandan

भ्रातृभावनायाः एवं च सहयोगभावनायाः प्रतीकम् – रक्षाबन्धनम्

भारतीयसंस्कृतिः अति प्राचीना वर्तते। अत्रत्याः उत्सवाः अस्माकं सांस्कृतिकपरम्परायाः द्योतकाः सन्ति। अत्रत्यस्य प्रत्येकमपि उत्सवस्य स्वकीया काचित् सामाजिकपृष्ठभूमिः वर्तते। रक्षाबन्धनं कश्चन भारतीयः उत्सवः वर्तते। एषः श्रावणमासस्य पूर्णिमायाम् आचर्यते। श्रावणमासस्य पूर्णिमायाम् आचरणत्वात् अयं ‘श्रावणी’ इत्यपि कथ्यते। रक्षाबन्धने रक्षासूत्रस्य अतीव महत्त्वं वर्तते। एवं तु सामान्यतः भगिन्यः भ्रातॄणां मणिबन्धे रक्षासूत्रं बध्नन्ति, परञ्च ब्राह्मणैः, गुरुभिः तथा च कुटुम्बे लघुबालिकाभिः सम्मानितसम्बन्धीनां मणिबन्धेषु अपि रक्षासूत्रं बद्ध्यते। कदाचित् तु सार्वजनिकरूपेण कस्यचित् नेतुः अथवा प्रतिष्ठितव्यक्तेः मणिबन्धे अपि सूत्रं बद्ध्यते। कुत्रचित् तु प्रकृतिसंरक्षणाय वृक्षेषु अपि रक्षासूत्रबन्धनस्य परम्परा प्रारब्धा अस्ति। एवमेव राष्ट्रियस्वयंसेवकसङ्घस्य पुरुषसदस्याः परस्परं भ्रातृभावनया गेरुवर्णस्य रक्षासूत्रं बध्नन्ति। रक्षासूत्रस्य बन्धनसमये सर्वे आचार्याः कस्यचित् श्लोकस्य उच्चारणं कुर्वन्ति, यस्मिन् रक्षाबन्धनस्य सम्बन्धः भूपतिबलिना स्पष्टरूपेण दृष्टिगोचरो भवति। अयं श्लोकः रक्षाबन्धनस्य अभीष्टश्लोको वर्तते –

येन बद्धो बली राजा दानवेन्द्रो महाबलः।

तेन त्वामनुबध्नामि रक्षे मा चल मा चल।। इति

श्लोके उक्तमस्ति यत् – येन सूत्रेण महान् शक्तिशाली दानवेन्द्रः राजा बलिः बद्धः आसीत्, तेन रक्षासूत्रेण अहं त्वां बध्नामि, यच्च तव रक्षां करिष्यति इति। अयमुत्सवः भ्रातृभावनायाः सहयोगभावनायाः च प्रतीको वर्तते। अस्मिन् दिने भगिन्यः भ्रातॄणां मणिबन्धेषु रक्षासूत्रं बद्ध्वा, तिलकं च धारयित्वा भ्रातॄणां दीर्घायुषः कृते प्रार्थयन्ति। भ्रातरोऽपि भगिनीनां रक्षायाः प्रतिज्ञां कुर्वन्ति तथा च ताभ्यः धनम् अथवा उपहारं यच्छन्ति। अस्योत्सवस्यारम्भः पौराणिककालतः एव मन्यते।

अर्थः –

रक्षाबन्धनस्य शाब्दिकोऽर्थः वर्तते ‘रक्षायाः बन्धनम्’ इति अर्थात् परस्परं रक्षानिमित्तं बन्धनम्, परस्परं रक्षाकरणम्, रक्षासूत्रं बद्ध्वा रक्षायाः अपेक्षा क्रियते। पुरुषः नारीं सदैव रक्षति इति भारतीयपरम्परा अस्ति।

अनुष्ठानम्  –

प्रत्येकं पर्व इव उपहाराणां तथा च भक्ष्य-पेययोः विशेषमहत्त्वं रक्षाबन्धनेऽपि भवति। सामान्यतया मध्याह्नभोजनं महत्त्वपूर्णं भवति। कुत्रचित् तु रक्षासूत्रबन्धनं यावत् उपवासस्य परम्परा अपि वर्तते। अस्मिन् दिने पुरोहिताः यजमानानां गृहं गत्वा तान् रक्षासूत्रं बध्नन्ति तथा च प्रतीकारे धन-वस्त्र-भोजनादीनि प्राप्नुवन्ति। उत्सवोऽयं भारतीयसमाजे एतावत् व्यापकतया तथा च गहनतया समाश्रितः अस्ति। अतः अस्य सामाजिकमहत्त्वं तु अस्त्येव, परन्तु पौराणिकम्, धार्मिकम् तथा च ऐतिहासिकं महत्त्वमपि वर्तते।

पौराणिकता –

रक्षाबन्धनस्य उत्सवः कदा आरभ्य आचर्य्यते इति तु कोऽपि न जानाति, परन्तु भविष्यपुराणे वर्णनमस्ति यत् पुरा देव-दानवेषु युद्धमभवत्। तत्र देवानां पराजयः अभवत्। तदा देवराजः इन्द्रः देवगुरुबृहस्पतेः पार्श्वं गतवान्। गत्वा च वृत्तं गुरवे उक्तवान्। तदा देवगुरुबृहस्पतिना श्रावणमासस्य पूर्णिमायाः दिने रक्षाविधानं कारितम्। ब्राह्मणानां स्वस्तिवाचनपूर्वकम् इन्द्रस्य भगिन्या इन्द्रस्य मणिबन्धे गुरुबृहस्पतिद्वारा अभिमन्त्रितम् रक्षासूत्रं बद्धम्। तस्मात् एव सूत्रात् इन्द्रः प्राणबलं प्राप्तवान्, युद्धे च जयं प्राप्तवान् इति जनोक्तिः। अस्मिन् एव दिने महालक्ष्म्या बलिनं रक्षासूत्रं बद्ध्वा भगवान् विष्णुः रसातलतः मुक्तीकृत्य विष्णुलोकमानितः आसीत्। विष्णुपुराणस्य कस्मिंश्चित् प्रसङ्गे कथितं यत् श्रावणपूर्णिमादिने एव भगवान् विष्णुः हयग्रीवरूपेण अवतीर्य वेदान् पुनः ब्रह्मणाय दत्तवान् इति। हयग्रीवः विद्यायाः तथा च बुद्धेः प्रतीकः मन्यते।

धार्मिकता –

उत्तराञ्चले अयमुत्सवः “श्रावणी” इति नाम्ना प्रसिद्धः वर्तते। अस्मिन् दिने यजुर्वेदिद्विजानाम् उपाकर्म भवति। अयम् उत्सवः ब्राह्मणानां सर्वश्रेष्ठः उत्सवः मन्यते। वृतिवन्तः ब्राह्मणाः यजमानेभ्यः रक्षासूत्राणि तथा च यज्ञोपवीतानि दत्त्वा दक्षिणां प्राप्नुवन्ति। अस्मिन्नेव दिने अमरनाथस्य प्रसिद्धयात्रा सम्पूर्णा भवति। तथा च अस्मिन् एव दिने तत्र हिमशिवलिङ्गमपि पूर्णं भवति इति कथ्यते।

महाराष्ट्रे अयमुत्सवः “नारियलपूर्णिमा” अथवा “श्रावणी” इति नाम्ना विख्यातः वर्तते। तत्र अस्मिन् दिने समुद्रस्य स्वामिनं वरुणदेवं प्रमोदयितुं नारिकेलफलानाम् अर्पणस्य परम्परा अपि अस्ति। राजस्थाने अयमुत्सवः विभिन्नप्रकारेण आचर्यते। तमिलनाडु–केरल-महाराष्ट्र-ओडीशादिराज्येषु  अयमुत्सवः “अवनि अवित्तम्” इति कथ्यते। व्रजे श्रावणशुक्लतृतीयातः श्रावणपूर्णिमां यावत् समस्तमन्दिरेषु एवं च गृहेषु श्रीकृष्णः आन्दोलनेषु विराजते। तथा च रक्षाबन्धनदिने आन्दोलनदर्शनं समाप्तं भवति।

ऐतिहासिकता –

रक्षाबन्धनस्य महत्त्वप्रतिपादनं कर्तृभिः अनेकाभिः पौराणिककथाभिः सार्धमेव ऐतिहासिककथाः अपि वर्तन्ते। अस्मिन्नेव सन्दर्भे महाराज्ञ्याः कर्णावत्याः कथा विशेषोल्लेखनीया वर्तते। प्रसङ्गः एवमस्ति – यदा बहादुरशाहः चित्तौड़गढे आक्रमणं कृतवान् तदा बहादुरशाहस्य सेनाशक्तिं दृष्ट्वा चित्तौडगढस्य तत्कालीना महाराज्ञी कर्णावती देहल्याः बादशाहं हुमायुं रक्षासूत्रं प्रेषयित्वा चित्तौडगढस्य रक्षायाः सन्देशं प्रापितवती। रक्षासूत्रं दृष्ट्वा हुमायुः तत्कालमेव चित्तौडगढस्य रक्षायै धावितवान् तथा च बहादुरशाहं पराजितं कृत्वा चित्तौडगढं रक्षितवान्। इदमेकम् ऐतिहासिकं तथ्यं वर्तते, अस्य अवहेलनां न कर्तुं शक्यते।

साहित्यतया –

अनेकेषु साहित्यग्रन्थेषु रक्षाबन्धनस्य उत्सवस्य विस्तृतं वर्णनं प्राप्यते। तेषु सर्वाधिकं महत्त्वपूर्णं वर्तते “हरिकृष्ण प्रेमी” इत्यस्य ऐतिहासिकं नाटकं रक्षाबन्धनम्, यस्य 1991 तमे वर्षे 18 तमसंस्करणं प्रकाशितमभवत्। मराठीभाषायां सामाज्यविषये लिखन् रामराव-सुभानरानवर्गे महोदयः अपि एकं नाटकं लिखितवान् यस्य शीर्षकं वर्तते “राखी उर्फ रक्षाबन्धन ” इति। रक्षाबन्धमस्माकं प्राचीना परम्परा अस्ति। इदं पर्व अस्मभ्यं परस्परं भ्रातृभावनायाः तथा च सहयोगभावनायाः सन्देशं ददाति। एतत् केवलं सूत्रं न अपितु स्नेहभावनायाः विश्वासभावनायाः तथा च सुरक्षायाः अभिवचनम् अभिस्मारयति। वस्तुतः अस्य सूत्रस्य पृष्ठतः नारीणां सम्मानरक्षायै सर्वस्वसमर्पणकर्तॄणां नारीणाम् एवं च सामर्थ्यवतां पुरुषाणाम् इतिहासः प्रच्छन्नः अस्ति।।

Leave a Reply Cancel reply

You must be logged in to post a comment.

Share
  • हास्यकणाः
  • बालरञ्जिनी
  • ध्वनयः
  • विभूतिः
  • आस्माकीनम्
  • स्वायत्तता
  • प्रतिक्रिया
  • सम्पर्कः
1
Copyrights © 2017, All Rights Reserved
Your Visitor Number

Follow Us On

​